________________
श्री सूत्रकृताङ्गदीपिका
अवरे वि य णं तेसिं तस थावरजोणियाणं पुढवीणं सक्कराणं वालुयाणं जाव सूरकंताणं सरीरा नाणावन्ना जाव मक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं ॥ ३० ॥
इहैके सत्त्वाः कर्मवशगाः नानाविधत्रसस्थावराणां देहेषु सचित्तेषु अचित्तेषु वा पृथिवीत्वेन उत्पद्यन्ते, तद्यथा- सर्पशिरस्सु मणयः, करिदन्तेषु मौक्तिकानि विकलेन्द्रियेषु अपि शुक्त्यादिषु मौक्तिकानि, स्थावरेषु अपि वंशादिषु तानि एव, एवमचित्तेषु ऊषरादिषु लवणत्वेन जायन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथ्वीषु शर्करा वालुको -पल- शिला- लवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते एयाओ गाहाओ त्ति- एता गाथा अनुगन्तव्याः, एतद्गाथानुगमेन पदानि वाच्यानि, पुढवी यसकरा वालुया य इत्यादि, अत्र पदोच्चारो यथा, पुढवित्ताए, सक्करत्ताए, वालुयत्ताए इत्यादि, एवं गाथानुसारेण पदानि वाच्यानि यावत् सूरकंतत्ताए त्ति. शेषं सुगपं, एवं चत्वारोऽपि आलापका उदकगमेन ज्ञेयाः ॥ ३० ॥ अथ सर्वजीवान् आश्रित्य आहअहावरं पुरखायं सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवुक्कमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनिदाणा कम्मईया कम्मठिया कम्मणा चेव विप्परियासुर्वेंति । से एवमायाणह, से एवमायाणित्ता आहारगुत्ते समिए सहिए सदा जए त्तिबेमि । ॥ ३१ ॥ | आहारपरिन्ना सम्मत्ता।।
द्वि. श्र. स्कन्धे तृतीयमध्ययनम्