________________
श्री सूत्रकृतागदीपिका
द्वि.श्रु.स्कन्धे तृतीयमध्ययनम्
इहैके सत्त्वा वातवशोत्पन्नत्रस-स्थावरदेहाऽऽधारभूतं उदकं योनि: उत्पत्तिस्थानं येषां ते तथा, तथा उदकसंभवा: त्रसस्थावरयोनिकेषु उदकेषु अपरोदकतया उत्पद्यन्ते, ते च जलसत्त्वा: तेषां त्रसस्थावरयोनिकानां जलानां स्नेहं पराणि अपि पृथिव्यादिशरीराणि च आहारयन्ति, तच्च पृथिव्यादिशरीरं भक्षितं सत् सारूप्यमानीय आत्मसात् कुर्वन्ति, अन्यानि अपि तत्र त्रसस्थावरशरीराणि वर्तन्ते, तेषां च नीरयोनिकानां नीराणां नानाविधानि शरीराणि वर्तन्ते, एतदाख्यातम् ॥२४॥
तदेवं त्रसस्थावरदेहसंभवं जलं योनित्वेन प्रदर्श्य अधुना निर्विशेषणं जलसंभवमेव जलं दर्शयति
अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणियाणं (जाव कम्मनियाणेणं तत्थवक्कमा उदगजोणिएसु उदएसु उदयत्ताए विउद॒ति, ते जीवा तेसिं उदगजोणियाणं) उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावन्ना जावमक्खाय।।२५।।
इहैके सत्त्वा उदकयोनिकेषु उदकेषु उत्पद्यन्ते, ते च तेषां जलसंभवानाम् आत्माऽऽधारभूतानां शरीरं भक्षयन्ति, शेषं प्राग्वत्।।२५॥ अथ जलाधारभूतान् त्रसान् प्राहअहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणिया जाव कम्मनिदाणेणं तत्थवुक्कमा उदग