________________
श्री सूत्रकृताङ्गदीपिका
विष्टादौ शरीरान्निर्गते अनिर्गते वा उत्पन्नाः तदेव विष्टादिकम् आहारयन्ति इति शेषं प्राग्वत्, अथ सचित्तदेहाश्रयान् जन्तून् आहएवं खुरदुगत्ताए त्ति- यथा मूत्रविष्टादौ उत्पादः तथा तिर्यग्देहेषु खुरदुगत्ति चर्मकीटत्वेन जायन्ते, तथाहि- जीवतामेव गोमहिष्यादीनां द्वि.श्रु.स्कन्धे
तृतीयमध्ययनम् चर्मणो अन्तः प्राणिन: सम्मूर्च्छते, ते च तन्मांसचर्मणी भक्षयन्ति, भक्षयन्तश्च तच्चर्मणो विवराणि कुर्वन्ति, गलच्छोणितेषु विवरेषु च ते तिष्ठन्तः तदेव शोणितं भक्षयन्ति, तथा अचित्तगवादिदेहेऽपि तथा सचित्ताचित्तवनस्पतिशरीरेऽपि घुणकीटका: संम्मूर्च्छन्ते, तद्देहमेव भक्षयन्तीति॥२२॥ अथ अप्कायं वक्तुकाम: तत्कारणभूतवायुकथनपूर्वम् आह
अहावरं पुरक्खायं- इहेगइया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवुक्कमा है। नाणाविहाणं तस-थावराणं सरीरेसु सचित्तेसु (वा) अचित्तेसु वा, तं सरीरगं (वातसंसिद्धं) वायसंगहियं वातपरिगयं उर्दू वाएस उड्ढभागी भवति, अहे वाएस अहेभागी भवइ, तिरियं वाएसु तिरिचभागी भवइ, तं (जहा)- उस्सा हिंमए महिया करए हरतणुए सद्धोदए, ते जीवा तेसिं नाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं उस्साणं जाव सद्धोदगाणं सरीरा नाणावन्ना जावमक्खाय।।२३॥ १ सम्मूय॑न्ते इति टीकायां २ BD अहवाएसु ३Bओस्सा JAM ओसा ४ BD हिममहिया