________________
.
IN (तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य
तेसिं) तसथावरजोणियाणं अणूसुगाणं सरीरा नाणावन्ना जाव मक्खायं, एवं दुरूवसंभवत्ताए, एवं खुरदुयत्ताए॥२२॥ ___अथापरम् आख्यातं- इहैके सत्त्वाः कर्मणा तत्र उत्पत्तिस्थाने उपक्रम्य आगत्य नानाविधत्रसस्थावराणां शरीरेषु सचितेषु अचित्तेषु
वा, अणुसुगत्ताए त्ति- अन्यशरीराश्रिततया परनिश्रया विवर्त्तते उत्पद्यन्ते इत्यर्थः, ते च विकलेन्द्रियाः सचित्तेषु मनुष्यादिशरीरेषु K यूका-लिक्षादिकत्वेन जायन्ते, नरभुज्यमानेषु मञ्चकादिषु अचित्तेषु मत्कुणत्वेन उत्पद्यन्ते, तथा नरशरीरेषु विकेलन्द्रियशरीरेषु वा
सचित्ताऽचित्तेषु ते जीवा अणूसुगत्ताए त्ति- अनुसूतत्वेन परनिश्रया कृम्यादित्वेन जायन्ते, केचित् सचित्ते अग्नौ मूषिकादितया, यत्र च अग्नि: तत्र वायुरिति ते वायूद्धवा अपि ज्ञेयाः, पृथ्वीमाश्रित्य कुन्थुपिपीलिकादयो वर्षादौ ऊष्मणा संस्वेदजा जायन्ते, उदके पूतरका डोल्लणका भ्रमरिकादयः, वनस्पतिकाये पनकभ्रमराद्याः, एवं ते जीवाः तानि स्वयोनिशरीराणि आहारयन्ति इति आख्यातम्, अथ पञ्चेन्द्रियमूत्रपुरीषोद्भवान् जीवान् आह-एवमित्यादि एवं पूर्वोक्तप्रकारेण सचित्ताचित्तशरीरनिश्रया यथा विकलेन्द्रिया जायन्ते तथा तत्सम्भवेषु मूत्र-पुरीष-वान्तादिषु परे जन्तवो दुष्ट-विरूपं रूपं येषां ते दूरूपाः, तत्संभवत्वेन- तद्भावेन जायन्ते, ते च
॥८३||