________________
श्री सूत्रकृताङ्गदीपिका
चखलु मए अप्पाड समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहट्टु समणाउसो ! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाड समणाउसो ! से उप्पाए बुइए, एवमेवं च खलु ए अप्पाड समणाउसो ! से एवमेयं बुइयं ॥ १२ ॥
लोकं मनुष्यक्षेत्रं 'च शब्दः समुच्चये' 'खलुः वाक्यालंकारे' मया अप्पाहद्वृत्ति आत्मनि आहृत्य व्यवस्थाप्य अथवा आत्मना स्वयं आहृत्य - ज्ञात्वा न परोपदेशतः सा पुष्करिणी उक्ता, कर्म चाष्टप्रकारं खलु मयाऽऽत्मनि आहृत्य आत्मना वा आहृत्य हे श्रमण ! आयुष्मन् ! तदुदकं उक्तं पुण्डरीकोत्पत्तिकारणं, कामा- इच्छारूपा भोगा- मदनव्यापाराः स कर्दमः, यथा पङ्के मनं आत्मानं उद्धर्तुं दुःशक्यं एवं विषयेष्वपीति विषयपङ्कयोः साम्यं, जनं सामान्यलोकं, जानपदाः आर्यदेशजाताः तानाश्रित्य तानि बहूनि पुण्डरीकाणि उक्तानि, राजानं चक्रवर्त्यादिकं आश्रित्य पद्मवरपुण्डरीकमुक्तम्, अन्यतीर्थिकान् आश्रित्य ते चत्वारः पुरुषा उक्ता:, तेषां राजपुण्डरीकोद्धरणे सामर्थ्याभावात्, धर्मं च आत्मनि आश्रित्य स भिक्षुः उक्तः, तस्यैव राजपुण्डरीकोद्धरणे समर्थत्वात्, धर्मतीर्थं च खलु आश्रित्य मया तत्तीरमुक्तम्, धर्मदेशनां चाश्रित्य मया स भिक्षोः संबंधी शब्द उक्तः, निर्वाणं मोक्षं चाश्रित्य स पुण्डरीकस्योत्पात उक्तः, एवमेतल्लोकादिकं च खलु आत्मनि आहृत्य आश्रित्य मया श्रमणायुष्मन् ! स एतत् पुष्करिण्यादिकं दृष्टांतत्वेन किंचित् साधम्र्म्यादिवमुक्तम् ॥१२॥
द्वि. श्रु. स्कन्धे प्रथमाध्ययनम्