________________
ततः पश्चात् से तस्य माता यत् नानाविधा रसवती: आहारमाहारयति तत्स्नेहेन तेषां जंतूनां वृद्धि: स्यात्, ततः तदेकदेशेन त्वगेकदेशेन वा मातुः आहारम् ओजसा मिश्रेण वा लोमभिः वा आहारयन्ति, अनुपूर्वेण यथाक्रमं पुष्टा: वृद्धि प्राप्ता जीवा: गर्भपरिपाकं गर्भनिष्पत्तिम् अनुप्रपन्नाः, ततो मातुः कायाद् अभिनिवर्तमाना: पृथग्भवन्तो निर्गच्छन्ति, कर्मवशाद् आत्मनः स्त्रीभावं एके जनयन्ति, एके पुंभावं नपुंसकभावं वा, ते च डहरा बालाः सन्तो मातुः क्षीरं स्तन्यम् आहारयन्ति, वृद्धाः सन्तः सर्पि: घृतं धान्यं ओदनं कुल्माषान् भुञ्जते, नानाविधान् त्रसस्थावरान् प्राणिनो जीवान् आहारयन्ति, नानायोनिकजन्तुशरीराणि आहारयन्ति इत्यर्थः, नानामनुष्याणां शरीराणि केचित् तद्योनिकत्वाद् आहारयन्ति इत्याख्यातम् ॥१६॥
गर्भजमनुष्या उक्ताः, संमूर्च्छनजाश्च अग्रे वक्ष्यन्ते, साम्प्रतं तिर्यग्योनिकाः, तत्राऽपि पूर्वं जलचरान् आह
अहावरं पुरक्खायं-नाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं, तं (जहा)- मच्छाणं जाव सुंसुमाराणं च, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणीए तहेव जाव तओ एगदेसेणं ऑयमाहारेंति, अणुपुव्वेणं पुट्ठा पलिपागमणुवन्ना तओ कायाओ अभिनिवट्टमाणा अंडं पैंगया जणयंति, पोययं पेगया जणयंति, से अंडे उन्भिज्जमाणे इत्थिं
॥८
॥
१Pएसवीची: २B उयमा० ३ PBD विट्टमाणा ४ AM प्रत्योः सर्वत्र 'पेगया' इत्यस्य स्थाने 'वेगया' इति ज्ञेयं.