________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्ये तृतीयमध्ययनम्
तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खणं सरीरा नाणावन्ना जावमक्खाय।।१६।।
अथापरम् आख्यातं- नानाविधानां मनुष्याणां स्वरूपमुक्तम् इत्यर्थः, तद्यथा कर्मभूमजा इत्यादिमनुष्याणां, यथाबीजेनेति यद् यस्य बीजं, तत्र शुक्राधिकं नरस्य शोणिताधिकं स्त्रिया: उभयसमता नपुंसकस्य कारणमिति, यथावकाशेन इति यो यस्य अवकाशो मातुः उदरकुक्षिप्रमुखः, तत्र वामा कुक्षि: स्त्रियः दक्षिणा नरस्य उभयाश्रितः षण्ढ इति, तत्र च अविध्वस्ता योनिः अविध्वस्तं बीजं (१) अविध्वस्ता योनिः विध्वस्तं बीज(२) विध्वस्ता योनिः अविध्वस्तं बीजं(३) विध्वस्ता योनि: विध्वस्तं बीजं(४) चतुर्ष भङ्गेषु आद्यभङ्गे एव उत्पत्ते: अवकाशो न शेषेषु त्रिषु, अत्र च स्त्रीपुंसयो: वेदोदये सति पूर्वकर्मकृतायां योनौ मैथुनप्रत्ययिको रताभिलाषोदयजनितो अग्निकारणयोः अरणिकाष्ठयोः इव संयोगो जायते, तत्संयोगे च तच्छुक्रशोणिते तैजसकार्मणाभ्यां गृहीत्वा तत्रोत्पद्यन्ते जीवाः, से दुहओ त्ति- ते जीवा: प्रथमं उभयोरपि स्नेहमाचिन्वन्ति अविध्वस्तयोनौ, विध्वस्यते तु योनिः पञ्चपञ्चाशिका नारी, सप्तसप्ततिक: पुमानिति, द्वादशमुहूर्तान् यावत् बीजमविध्वस्तं स्यात्, तत ऊर्ध्वं ध्वंसं याति, तत्र जीवाः कर्मवशत: स्त्रीपुनपुंसकत्वेन विउद्धृति जायन्ते, ते जीवा मातुः ऋतुं शोणितं पितुः शुक्रं तत्, तदुभयं संसृष्टं कलुषं किल्बिषं बीभत्सं तत्प्रथमतया आहारमाहारयन्ति,