________________
विउति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झारोहाणं सरीरा नाणावन्ना जाव मक्खायं ॥ ६ ॥
इह वृक्षयोनिकेषु एके अध्यारोहा जायन्ते, वृक्षोपरि जाता वृक्षा अध्यारोहा इत्युच्यन्ते, ते च वल्लीवृक्षाभिधानाः, शेषं प्राग्वत्, इदं प्रथमसूत्रं ॥ ७॥
अहावरं पुरखायं - इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा अज्झारोहवुक्कमा जाव कम्मनियाणं तत्थवुक्कमा रुक्खजोणिएस (अज्झारोहेसु) अज्झारोहत्ताए विउट्टंति, ते जीवा सिं रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं जाव सारूविकडं संतं, अवरे वियणं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरगा नाणावन्ना जाव मक्खायं ॥ ७॥
प्राग् वृक्षयोनिकेषु वृक्षेषु अध्यारोहा उक्ताः, अथ तेषु एव अन्ये प्रतिप्रदेशोपचयकर्त्तारो अध्यारोहा वनस्पतित्वेन जायन्ते, ते जीवा अध्यारोहप्रदेशेषु उत्पन्ना अध्यारोहजीवाः, तेषां स्वयोनिभूतानि शरीराणि आहारयन्ति, तत्र अपराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति, अपराणि वा अध्यारोहसंभवानां अध्यारुहजीवानां नानावर्णकादिकानि शरीराणि भवन्ति एवमाख्यातमिति द्वितीयं सूत्रम् ॥७॥
॥७५॥