SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं, आउ-तेउ-वाउ-वणस्सइसरीरं, नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विप्परिणयं सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नाणावन्ना जाव ते जीवा कम्मोववण्णगा भवंतीतिमक्खाय।।४॥ अथ अपरम् एतदाख्यातं, इदम् वनस्पत्यवयवसूत्रं, यथा इहैके जीवा वृक्षयोनिकाः स्युः, तदवयवाऽऽश्रिताश्चान्ये वनस्पतिरूपा एव जीवाः स्युः, तथा हि यो हि एको वनस्पतिजीवः सर्ववृक्षावयवव्यापी स्यात्, तस्य च अपरे तदवयवेषु मूल-कन्द-स्कन्ध-त्वक्शाखा- प्रवाल-पुष्प-पत्र-फल- बीजभूतेषु दशस्थानेषु जीवाः समुत्पद्यन्ते, ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षोद्भवा वृक्षव्युत्क्रमाश्च उत्पद्यन्ते इति, शेषं पूर्ववत्, इह चत्वारि सूत्राणि यथा पूर्वमुक्तानि, यथा वनस्पतयः पृथिव्याश्रिता भवन्तीत्येकं(१) तच्छरीरम् अप्कायादिशरीरं च आहारयन्ति(२) वृद्धाः तदाहारितं शरीरं अचित्तं विध्वस्तं च कृत्वा आत्मसात् कुर्वन्ति(३) अन्यानि अन्यानि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि मूलकन्दादीनि नानावर्णानि भवन्ति(४) एवमत्राऽपि चत्वारि सूत्राणि ज्ञेयानि।।४।। अथ वृक्षोपरि उत्पन्नान् वृक्षान् आश्रित्य आह ७४||
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy