SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विप्परिणयं सारूविकडं संतं अवरे वि य णं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नाणावन्ना नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिआ नाणाविहसरीरपोग्गलविउव्विया, ते जीवा कम्मोववण्णगा भवंतीतिमक्खायं ॥ २ ॥ ते च तत्रोत्पन्ना जीवा आहरन्ति पृथिवीशरीरं, एवमप्काय-तेजो- वायु-वनस्पतिशरीरमपि, नानाविधानां त्रस - स्थावराणां प्राणिनां यत् शरीरं तत् स्वकायेन आश्रित्य अचित्तं कुर्वन्ति, यदि वा परिविध्वस्तं पृथिव्यादिशरीरं पूर्वाऽऽहारितमिति पूर्वं उत्त्पत्तिसमये पृथिव्यादिभिः एव आहारितम् आसीत् तदधुना वनस्पतिजीवः तत्रोत्पद्यमान उत्पन्नो वा त्वचास्पर्शेन आहारयति, आहार्य च स्वकायत्वेन विपरिणामितं स्वकायेन सह सारुवित्ति स्वरूपतां नीतं सत् तन्मयं स्यात्, अवरे वि यत्ति - अपराणि अपि पृथिवीयोनिकानां वृक्षाणां शरीराणि नानावर्णादीनि यथा स्कन्धस्य अन्यो वर्णादिः मूलस्य अन्य एव, एवं यावत् नानाविधशरीरपुद्गलविकुर्विताः स्युः, तथा हि नानारसवीर्यविपाका नानापुद्गलोपचया सुरुपकुरुपसंस्थाना दृढाल्पसंस्थानाश्च स्युरिति, ते जीवा वनस्पतिकायाः कर्मोत्पन्ना एव न पुन: कालेश्वरादिना तत्रोत्पद्यन्ते इत्याख्यातम् अर्हदादिभिः॥२॥ ॥७३॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy