________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे तृतीयमध्ययनम्
अग्राण्येव उत्पत्तौ कारणं येषां ते अग्रबीजा: कोरण्टादयः, मूलबीजा आर्द्रकादयः, पर्वबीजा इक्षुप्रमुखाः, स्कंधबीजा: सल्लक्यादयः, नागार्जुनीयास्तु पठन्ति- 'वणस्सइकाइयाणं पंचविहा बीजवकंती एवमाहिज्जइ तं (जहा) 'अग्ग-मूल- पोर- खंध- बीयरुहा छट्ठा वि एगंतिया संमुच्छिमा बीजया जायते', यथा दवदग्धभूमौ हरितानि विविधानि उत्पद्यन्ते, तेसिं च णंत्ति- तेषां चतुर्विधानाम् अपि वनस्पतिकायानां यद् यस्य बीजं तद् यथाबीजं तेन यथाबीजेन, कोऽर्थः? - शाल्यकुरस्य शालिबीजम् उत्पत्तिकारणम् एवमन्यदपि ज्ञेयं, यो यस्य अवकाश: यद् यस्य उत्पत्तिस्थानं तद् यथावकाशं तेन, इह जगति एके केचन जीवा वनस्पती उत्पद्यमाना अपि पृथिवीयोनिका: पृथिवीसंभवा:, कोऽर्थः?- बीजाद् उत्पद्यमानो वनस्पतिकायः पृथिव्याद्याधारे समुत्पद्यते, यथा शैवलकर्दमादयो जलाधारे जायन्ते तथा वनस्पतयो भूमौ जायन्ते इत्यर्थः, तथा पृथिव्यां व्युत्क्रमो-वृद्धिः येषां ते तथा, एवं ते तद्योनिका: तत्संभवा: तद्व्युत्क्रमा: कर्मोपगा: कर्मप्रेर्यमाणाः कर्मनिदानेन तत्र पृथिव्यां वनस्पतौ वा व्युत्क्रान्ता आगताः सन्तो नानाविधयोनिकासु पृथिवीषु षण्णां कायानाम् उत्पत्तिस्थानभूतासु सचित्ताचित्तमिश्रासु वृक्षतया विवर्तन्ते जायन्ते, ते च तत्रोत्पन्नाः तासां पृथिवीनां स्नेहं स्निग्धभावम् आहरन्ति- गृह्णन्ति॥१॥
ते जीवा आहारेंति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरंणाणाविहाणं १. "शरू-शालेडु इत्यर्थः