SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे प्रथमाध्ययनम् अथ भिक्षुः-निर्दोषाहारभोजी रूक्षो- रागद्वेषरहित:, तीरार्थी- संसाराब्धितीराभिलाषी, खेदज्ञ- इत्यादिविशेषणानि पूर्वव्याख्यातानि, यावन्मार्गस्य गतिपराक्रमज्ञः, स च अन्यतरस्य दिशो अनुदिशो वा आगत्य तां पुष्करिणिं तस्याश्च तीरे स्थित्वा तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च चतुर: पुरुषान् पश्यति पंकनीरमग्नान्, दृष्ट्वा च स भिक्षुरेवं वदेत्, अहो इमे चत्वारोऽपि पुरुषाः अक्षेत्रज्ञा अकुशला न मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषाः एवं ज्ञातवन्तो यथा वयं पुण्डरीकं उन्निक्षेप्स्याम उत्खनिष्यामः, न च पुण्डरीकं (एवमुत्क्षेप्तव्यं) यथैते मन्यन्ते, किन्तु अहमस्मि भिक्षू रूक्षो यावन्मार्गस्य गतिपराक्रमज्ञो, अहम् एतत् पुण्डरीकमुत्खनिष्यामीत्युक्त्वा स भिक्षुः न अभिक्रमेत् तां पुष्करिणिं न प्रविशेत्, तस्याः तीरे स्थित्वा तटस्थ एव शब्दं कुर्यात्, यथा, उत्पत हे पुण्डरीक! उत्पत, इति शब्दश्रवणात् तदुत्पतितं पुण्डरीकम् ॥१०॥ दार्टीतिकं योजयन् श्रीवीर: शिष्यान् आहकिट्टिए नाए समणाउसो ! अढे पुण से अ जाणिअव्वे भवइ, भंतेति समणं भगवं महावीरं निग्गंथा अ निग्गंथीओ अ वंदंति नमसंति वंदित्ता नमंसित्ता एवं वदासि, किट्टिए नाए समणाउसो! अट्ठं पुण से न याणामो समणाउसो त्ति समणे भगवं महावीरे ते अ बहवे निग्गंथा य निग्गंथिओ अ (आमंतेत्ता) एवं वयासि, हंता समणाउसो! आइक्खामि विभावेमि किडेमि पवेएमि सअटळं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy