________________
श्री सूत्रकृताङ्गदीपिका
रक्षितो दुर्गतिपाताद् येन स आत्मरक्षित:, आत्मानम् अनर्थपरिहारेण अनुकम्पते इत्यात्माऽनुकम्पकः, आयनिष्फेडएत्ति- आत्मानं संयमेन संसारचारकात् निष्कासयतीति, आत्मानं द्वादशक्रियास्थानेभ्यः प्रतिसंहरेत् स महापुरुषः, इति: समाप्तौ, ब्रवीमीति पूर्ववत्।।८१||
द्वि.श्रु.स्कन्धे तृतीयमध्ययनम्
इति तपागच्छाधिपतिश्रीहेमविमलसूरीश्वरशिष्यहर्षकुलपंडितप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां द्वितीयश्रुतस्कंधस्य क्रियास्थानाऽऽख्यं द्वितीयमध्ययनं समाप्त॥६॥