________________
2 इच्चेएहिं बारसहिं किरियट्ठाणेहिं वट्टमाणा जीवा नो सिज्झिंसु बुझिंसु जाव नो सव्वदुक्खाणमंतं
करिंसु वा करिति वा करिस्संति वा, एयंमि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिझिंसु बुझिंसु मुच्चिंसु परिनिव्वाइंसु सव्वदुक्खाणं अंतं करेंसु वा करिति वा करिस्संति वा । से भिक्खू आयट्ठी आयहिए आयगुत्ते आयजोगी आयपरक्कमे आयरक्खिए आयाणुकंपए आयनिप्फेडए आयाणमेव पडिसाहरिजासि त्ति बेमि ॥८१॥ किरियट्ठाणं बिइयज्झयणं सम्मत्त।।
इत्येतेषु द्वादशक्रियास्थानेषु अधर्मपक्षो अवतार्यते, तत एतेषु वर्तमाना जीवा न सिद्धाः न सिध्यन्ति न सेत्स्यन्ति, न मुक्ता न मुच्यन्ते न मोक्ष्यन्ते, न बुद्धा न बुध्यन्ते न भोत्स्यन्ते, न सर्वदुःखानां अन्तं चक्रुः न कुर्वन्ति न करिष्यन्ति, तथा एतस्मिन् त्रयोदशे क्रियास्थाने धर्मपक्षावतारः, ततोऽत्र वर्तमाना जीवा: सिद्धा सिध्यन्ति सेत्स्यन्ति इत्यादि, तदेवं स भिक्षुः द्वादशक्रियास्थानवर्जको, अधर्मपक्षत्यागी, धर्मपक्षस्थः, त्रयोदशक्रियास्थानवर्ती, आत्मनो अर्थो-आत्मार्थः स विद्यते यस्य स आत्मार्थी, आत्महितः, आत्मा गुप्तो यस्य स तथा, आत्मयोग:-कुशलमन:प्रवृत्तिरूप: स यस्यास्ति स आत्मयोगी, आत्मपराक्रम: स्वयं संयमानुष्ठानप्रवृत्तः, आत्मा
॥७॥