________________
श्री सूत्रकृताङ्गदीपिका
तेषां ढौकितवान् उवाच च, भोः प्रावादुका ! इदं अंगारभृतं भाजनं एकैकं मुहूर्तं प्रत्येकं बिभृत यूयं, न चेदं सन्दंशकस सारिकं नाऽपि च अग्निस्तम्भनं विदध्युः, नाऽपि च साधर्मिकानाम् अग्निदाहोपशमादिना उपकारं कुर्युः इति, ऋजवो मायामकुर्वाणाः पाणिं प्रसारयतः, तेऽपि तथैव कुर्युः, ततोऽसौ नरः तद्भाजनं तत्पाणौ समर्पयति तेऽपि च दाहभयाद् हस्तं सङ्कोचयन्ति, ततोऽसौ पुरुषः तान् प्राह- किमिति पाणिं संहरत यूयं ?, ते प्राहुः - दाहभयाद, नरः प्राह- दग्धेन हस्तेन किं भावी? दुःखमिति चेद्, यदि एवं यूयं दाहोत्पन्नदुःखभीरवः सुखलिप्सवः, एवं सति सर्वेऽपि जंतवः संसारवर्तिनः एवंविधा एव, आत्मतुलया आत्मतुल्यत्वेन यथा मम दुःखं न सम्मतं तथा सर्वजीवानां इति एतत् प्रमाणं, एसा युक्तिः, तदेतत् समवसरणं एष धर्मविचारः, 'आत्मवत् सर्वभूतानि यः पश्यति स पश्यति' इति प्रत्येकं सर्वेषां तुला साम्यं इत्यादि, तत्थ णं त्ति- तत्र एवं सति ये श्रमणब्राह्मणादय एवमाख्यान्ति, सर्वे प्राणा हन्तव्या दण्डादिभिः, परितापयितव्या धर्मार्थम् अरघट्टादिवहनादिभिः परिग्राह्याः श्राद्धादौ मत्स्या इव, अपद्रावयितव्या यागादौ मेषा इव, एवं ये भाषन्ते, आगंतुंत्ति - ते आगामिनि काले स्वशरीरस्य छेदाय भेदाय च भाषन्ते, तथा आगामिनि काले जाति-जरा-मरणानि बहूनि प्राप्नुवन्ति, योन्यां जन्म योनिजन्म तद् बहुशो गर्भजावस्थायां लभन्ते, संसारप्रपञ्चान्तार्गता: तेजोबायुषु
१ B संसारकं
द्वि.. स्कन्धे द्वितीयमध्ययनम्