________________
IS
.
सत्त्वं, असत्त्वं, सदसत्त्वं, अवाच्यत्वं चेति, शेषविकल्पत्रयं तु उत्पत्ते: अनन्तरं पदार्थावयवापेक्षं, अत उत्पत्तौ न सम्भवन्तीति चत्वार एव भेदाः त्रिषष्टिमध्ये क्षिप्ता जाता: सप्तषष्टिः (६७), एषामर्थलेशो यथा, को जानाति जीवः सन् इत्येको भेदः १, कश्चिदपि न जानाति तद्ग्राहकप्रमाणाभावादित्यर्थः, ज्ञातेन वा किं तेन प्रयोजनं?, ज्ञानस्य कदाग्रहहेतुतया परलोकप्रतिपंथित्वात्, एवमसदादयोऽपि भङ्गा भाव्याः, उत्पत्तिरपि किं सतो असत: सदसतोऽवाच्यस्य वेति को जानाति? ज्ञातेन वा अनेन न किञ्चिदपि प्रयोजनं इत्यज्ञानिकभेदाः।
वैनयिका: द्वात्रिंशत् (३२) यथा- सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽधम- मातृ-पितृरूपेषु अष्टसु स्थानेषु कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनय: कार्य इति चत्वारः कायादयः स्थाप्याः, चत्वारश्चाष्टभिः गुणिता जाता द्वात्रिंशत् (३२), एवं सर्वेऽपि मीलिता जाताः ३६३ परवादिभेदाः, एषां विशेषव्याख्या प्रथमाङ्गतो ज्ञेया, ते सर्वे प्रावादुका जैना इव निर्वाणं मोक्षमाहुः तेऽपि लपन्ति वदन्ति धर्मदेशनां, यथा हे श्रावका: ! श्रुण्वन्तीति श्रावका:- एवं गृह्णीत यूयं यथा अहं देशयामि इति, तथा तेऽपि धर्मश्रावयितार: सन्त एवं लपन्ति यद् अनेन उपायेन स्वर्गमोक्षप्राप्तिरिति॥७६।।
ते सव्वे पावाउया आदिकरा धम्माणं नाणापन्ना नाणाछंदा नाणासीला नाणादिट्ठी नाणारुई १PD चेत्ति