________________
श्री सूत्रकृताङ्गदीपिका
कालतः १ अस्ति जीवः स्वतो नित्य ईश्वरतः २ एवमात्मानियतिस्वभावैरपि, एवं पञ्चभेदा नित्यपदेन लब्धाः, अनित्यपदेनाऽपि पञ्च, एते दश विकल्पाः स्वतः पदेन लब्धाः, एवं दश विकल्पाः परतः पदेनाऽपि जाता विंशति जीवपदेन, एवमजीवाद्यष्टपदैरपि विंशतिविंशतिः स्युः, नवभि: विंशतिभिश्च अशीत्यधिकं शतं, एते क्रियावादिभेदाः ।
न कस्यचित् पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशात्, क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया, इत्यादि ये वदन्ति ते अक्रियावादिन:, तेषां भेदाः ८४ यथा- पुण्यपापवर्जितजीवाजीवादिपदार्थसप्तकस्य न्यासः, तस्य अधः प्रत्येकं स्वपरभेदौ, असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः, कालादीनां पञ्चानामधस्तात् षष्ठी यदृच्छा स्थाप्या, इह यदृच्छावादिनः सर्वेऽपि अक्रियावादिन एव, ततः प्राग् यदृच्छा नोक्ता, तत एवं भेदाः कार्याः, नास्ति जीव: स्वत: कालतः (१) नास्ति जीवः स्वत ईश्वरत (२) एवमात्मादिभिः अपि, एवं षड्भेदाः स्वतः पदेन, परतः पदेनाऽपि षट्, जाता १२ ( द्वादश), एवमजीवादिपदार्थेषु प्रत्येकं द्वादश, ततो द्वादश सप्तभि: गुणिता जाता: चतुरशीति: (८४), एते अक्रियावादिभेदाः । अज्ञानिकभेदा: सप्तषष्टिः (६७) यथा, जीवाजीवाद्या नवपदार्थाः स्थाप्यन्ते, उत्पत्तिश्च दशमी, नवपदार्थानां अधः प्रत्येकं सप्त सत्त्वादयः स्थाप्याः, तद्यथा- सत्त्वं, असत्त्वं, सदसत्त्वं, अवाच्यत्त्वं, सदवाच्यत्वं, असदवाच्यत्वं, सदसदवाच्यत्वं चेति, नव च सप्तभिर्गुणिता जाता: त्रिषष्टिः (६३), उत्पत्तेश्चत्वार एव आद्या विकल्पाः, तद्यथा
१ BD काल
द्वि. श्रु. स्कन्धे द्वितीयमध्ययनम्