________________
विभंगे एवमाहिए, इमाइं तिन्नि तेवट्ठाई पावाउयसयाइं भवंतीतिमक्खायाइं तं (जहा)किरियावाईणं अकिरियावाईणं अण्णाणियवाईणं वेणइयवाईणं, ते वि निव्वाणमाहंसं. ते वि लवंति सावगा, ते वि लवंति सावइत्तारो॥७६॥
एवमेव संक्षेपेण समनुगम्यमाना व्याख्यायमानाः सम्यग् अनुगृह्यमाणा अनयो: एव धर्माधर्मपक्षयोः अनुपतन्ति, उपशान्तस्थानं ___धर्मपक्षः, अनुपशान्तम् अधर्मस्थानं, तत्थ णं त्ति- तत्र च यत्प्रथमस्थानस्य अधर्मपक्षस्य स्थानं, तत्र अमूनि त्रीणि त्रिषष्ट्यधिकानि प्रावादुकशतानि अंतर्भवन्ति इत्येवमाख्यातं पूर्वाचाय:, तद्यथा- क्रियावादिनः अक्रियावादिन: अज्ञानिकवादिनः वैनयिकवादिनः, अत्र षष्ठीबहुवचनेन इदमाह- क्रियावादिनां अशीत्युत्तरं शतं (१८०), अक्रियावादिनां चतुरशीतिः (८४) अज्ञानिकानां सप्तषष्टिः(६७), वैनयिकानां द्वात्रिंशत् (३२), सर्वमीलिताः ३६३ मौलभेदाः, भेदाऽऽनयनप्रकारश्चायं-जीवाजीवा-ऽऽश्रव-संवरनिर्जरा-पुण्य-पाप-बंध-मोक्षरूपान् नवपदार्थान् विन्यस्य जीवपदार्थस्य अध: स्वपरभेदौ स्थाप्यौ, तयोः अध: नित्यानित्यभेदौ, तयोरप्यधः काले(१) श्वरा(२)ऽऽत्मा(३) नियति(४) स्वभाव(५) भेदाः पञ्च स्थाप्याः, तत एवं भेदाः कार्याः, अस्ति जीव: स्वतो नित्यः
॥६७॥
१ AM सु ते वि मोक्खमाहंसु ते वि० २ BD Oआत्मन्०