________________
श्री सूत्रकृताङ्गदीपिका
दिव्वा अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमिस्सभद्दया वि भवंति, एस ठाणे आरिए जाव सव्वदुक्खपहीणमग्गे एगतसम्मे साहू, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ।। ७१ ॥
एगच्चाए त्ति - एके पुनः एकया अर्चया एकेन शरीरेण एकभवाद्वा मोक्षं गन्तारः स्युः, एगे पुणत्ति एके पुनः पूर्वकर्मावशेषे सति कालं कृत्वा अन्यतरेसु देवलोकेषु वैमानिकेषु देवतया उत्पद्यन्ते, तद्यथा-महर्द्धि-महाद्युति - महाशुक्ल - महायशो - महाबल-महानुभाव-महासुखेषु देवलोकेषु देवाः, तेऽपि एवम्भूता इत्याह-महर्द्धिकादयः तथा हारविराजितवक्षसः कटक- त्रुटित स्थंभितभुजाः, अङ्गद-कुण्डल - घृष्टगंडतल - कर्णपीठधरा, विचित्रहस्ताभरणा विचित्रमाला मुकुलित-मुकुटाः, परिहितकल्याणप्रवरवस्त्राः,कल्याणप्रवरमाल्यानुलेपनधरा, भासुरबोंदि भास्वरशरीरा, प्रलम्बवनमालाधराः, दिव्वेणं त्ति- दिवि भवं दिव्यं तेन रूपेण यावद् दिव्यया द्रव्यलेश्यया युताः दश दिशो विद्योतयन्तः प्रभासयन्तो गत्या देवलोकरूपया कल्याणा: शोभनाः, स्थित्या उत्कृष्टमध्यमया कल्याणा:, आगमिस्स त्ति- आगामिनि काले भद्रकाः शोभनमनुष्यर्भवं प्राप्ताः सद्धर्मप्रतिपत्तारः स्युः, तदेतत् स्थानं आर्यं साधु श्रेष्ठं, एतद् द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्गो विचारः समाख्यातः ॥ ७१ ॥
१ B० भवप्राप्ताः
द्वि. श्रु. स्कन्धे द्वितीयमध्ययनम्