________________
औपनि हितकाः, संख्याप्रधाना दत्तयो येषां ते तथा, परिमिय त्ति- परिमितपिण्डपातः अर्द्धपोषादिलाभो येषां अस्ति ते तथा, सुद्धेसणिया शुद्धैषणाः शुद्धस्य वा निव्यञ्जनस्य कूरादेः एषणा येषामस्ति ते, अन्तप्रान्तं वल्लचनकादि स आहारो येषां ते तथा, विरसं नीरसं शीतलीभूतं, रूक्षाहारा, अंबिलिया आचाम्लं ओदनकुल्माषादि तेन चरन्तीति निर्विकृतिका: घृतादिविकृतित्यागिनः, अमद्यमांसाशिनः मद्यमांसं न अनन्तीति, नो नियागत्ति न नित्यं रसभोजिन, नेसज्झिया निषद्यायुतायां भूमौ उपविशनं तया चरन्तीति नैषद्यकाः, वीरासनं सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे सति याद्दशम् अवस्थानं, तेद्यस्यास्ति स वीरासनिकः, दंडायत्ति दण्डस्य इव आयतं आयामो येषां ते दंडायतिकाः, लगण्डं वक्रकाष्टं तद्वत् शेरते ये ते लगण्डशायिन:- पार्ष्णिका शिरश्च पृष्ठव वा भूमौ गति तथा शयनं कुर्वन्ति, आतापका आतापनाग्राहिणः, अवाउडा अप्रावृताः प्रावरणवर्जकाः, अगंडूया अकण्डूयकाः, अणिट्ठा अनिष्ठीवनाः, धुतमंसुत्ति- धूतानि निष्प्रतिकर्मतया त्यक्तानि केश - श्मश्रु-रोमाणि शिरोज - कूर्च - कक्षादिलोमानि यैस्ते तथा सर्वशरीरपरिकर्मणारहिता इत्यर्थः ॥ ६९ ॥
विहारेणं विहरमाणा बहूइं वासाई सामन्नपरियागं पाउणिंति, पाउणित्ता आबास १ D नैषध्यिका २ D तस्यास्ति
॥६२॥