________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
।
पडिकम्मविप्पमुक्का चिठेति।।६९॥
तेषां साधूनां भगवतां इमा एतद्रूपा यात्रामात्रावृत्ति: संयमयात्राप्रमाणा जीविका अभवत्, तद्यथा- चतुर्थभक्तं एकोपवास:, षष्ठभक्तं यावत् षण्मासिकं, अथ च उक्खित्तचरियत्ति उत्क्षिप्तं स्वकार्याय पाकभाजनात् उद्वृत्तं तदर्थं अभिग्रहत: चरन्ति तद्वेषणाय गच्छन्तीति उत्क्षिप्तचरकाः, निक्खित्तचरय त्ति- निक्षिप्तं पाकभाजनाद् अनुद्वृत्तं, उक्खित्तनिक्खित्तचरय त्ति पाकभाजनाद् उत्क्षिप्तं सत् निक्षिप्तं तत्रैव अन्यत्र वा स्थाने यदन्नं तदर्थं अभिग्रहवान् चरति, अन्तेन प्रान्तेन रूक्षेण भक्तादिना चरन्ति ये ते तथा, समुदानेन भिक्षया चरन्तीति, संसट्टेन खरण्टितेन हस्तादिना दीयमानं संसृष्टं उच्यते, उक्तविपरीतं असंसृष्टं तेन चरन्ति, तज्जायत्ति- तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन चरन्ति येते तथा, दिट्ठलाभियत्ति- * दृष्टस्यैव भक्तादे: लाभ:, अदृष्टस्य अपवरकादिमध्यात् निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादे: लाश: तेन चरन्ति ये ते लथा, पुट्ठलाभियत्ति-* पृष्टस्यैव- हे साधो! किं ते दीयते इत्यादि प्रश्नेन यो लाभ: स येषामस्ति ते तथा, एवम् अपृष्टलाभिका विपरीता, भिक्षा इव भिक्षा, तुच्छं अवज्ञातं वा, तल्लाभो येषामस्ति ते तथा अभिक्षालाभिका विपरीताः, अज्ञातचरका अज्ञातगृहेषु चरन्तीति अभिग्रहवन्तः, अन्नं भोजनं वा ग्लायति अन्नग्लायिकः स चाभिग्रहविशेषात् प्रातरेव अन्नं गृहाति, उवणिहिया- उपनिहितं यथाकथञ्चिद् आसन्नीभूतं तेन चरन्ति ये ते **एतदन्तर्गतः पाठः P प्रतौ नास्ति