________________
इवा उदगंसि पक्खित्ते समाणे उदगतलमतिवइत्ता अहे धरणितलपइट्ठाणे भवइ, एवामेव तहप्पगारे पुरिसजाए वजबहुले धुन्नबहुले पंकबहुले वेरबहुले अयसबहुले अप्पत्तिय-दंभ-नियडि-साइबहुले ऑसन्नं तसघाई कालमासे कालं किच्चा धरणितलमतिवइत्ता अहे नरगतलपइट्ठाणे भवइ॥६२॥
एवामेव त्ति- एवमेव ते निर्दया: स्त्रीप्रधानेषु कामेषु मूर्छिता: गृद्धा: ग्रथिता: अध्युपपन्ना: यावद् वर्षाणि चतुष्पञ्चषट्सप्त वा दश वा अल्पतरं प्रभूततरं वा कालं भोगान् भुक्त्वा वैरायतनानि वैरानुबन्धान प्रविसूय उत्पाद्य बहूनि पापकर्माणि संचित्य वर्धयित्वा ओसन्नं प्राय: सम्भारकृतेन कर्मणा प्रेर्यमाणा नरकतलप्रतिष्ठानाः स्युः, यथा अयोगोल: लोहगोल: शिलागोलो वा उदकक्षिप्त: उदकतलं अतिवर्त्य उल्लंघ्य अधो धरणितलप्रतिष्ठानो भवति एवमेव स नरो वजं बध्यमानं कर्म तद्बहुल:, धूनं प्राग्बद्धं कर्म तत्प्रचुरः, पङ्कबहुल: पळे-पापं, वैरबहुल:, अयशोबहुलः, अप्पत्तिय त्ति मनसो दुर्ध्यानं, दंभो मायया परवञ्चनं, निकृति: भाषावेषादिपरावर्तेन परद्रोहबुद्धिः, सातिशयेन द्रव्येण हीनद्रव्यस्य मेलनं साति: तद्बहुलः, प्राय: त्रसघाती कालमासे स्वायु:क्षये कालं कृत्वा धरणितलं रत्नप्रभादिकायाः पृथिव्या: तलं अतिलंध्य अधो नरकतलप्रतिष्ठान: स्यात् ॥६२॥ नरकस्वरूपम् आह
॥५८॥
१०'अयसबहुले' इति नास्ति २ BD उसन्नं ३ B उसनं