________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
तालण-वह-बंध परिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मया परपाणपरितावणकरा कज्जति तओ वि अप्पडिविरया जावज्जीवाए।।५८॥
हण-छिंदत्ति- जेहि दंडादिना, छिन्द्धि कर्णादिकं, भिन्द्धि शूलादिना, एवं परोपदेशं ददति, किंभूताः? -विकर्त्तकाः प्राणिनां चर्मापनेतारः, तेनैव लोहितपाणयः, चण्डा, रौद्रा निस्त्रींशाः, क्षुद्राः, साहसिका अविचारितकारिणः, उत्कुञ्चन-वञ्चन-माया-निकृति-कूटकपटादिभिः सहातिसंप्रयोगो गायं तेन बहुलाः, तत्र शूलाधारोपणार्थं ऊर्ध्वं कुंचनं उत्कुंचनं, वञ्चनं प्रतारणं- यथा अभयकुमार: प्रद्योतगणिकाभि: धर्मवञ्चनया वञ्चित:, माया वञ्चनबुद्धिः प्रायो वणिजामिव, निकृतिस्तु बकवृत्त्या देशभाषावेषादिविपर्ययकरणं, कूटं तुलामानादेः न्यूनाधिककरणं, कपटं यथा अषाढभूतिना वेषपरावृत्त्या आचार्यो-पाध्याय-संघाटका-ऽऽत्मार्थं चत्वारो मोदका लब्धाः, एवं मायायुता नराः, पुनः किंभूताः? दुःशीला: चिरपरिचिता अपि शीघ्रं विसंवदन्तः, दुष्टवृत्ताः, दुःखेन प्रत्यानन्द्यन्ते हर्षं प्राप्यन्ते इति दुष्प्रत्यानन्द्याः, असाधव: पापाः, सर्वतः प्राणातिपाताद् अप्रतिविरताः लोकनिन्द्यादपि ब्राह्मणघातादेः अनिवृत्ता इति सर्वग्रहणम्, एवं यावज्जीवं सर्वतो मृषावादा-ऽदत्तादान-मैथुन-परिग्रहाद् अप्रतिविरता, एवं सर्वेभ्यः क्रोध- मान-माया- लोभेभ्यः तथा प्रेम- द्वेष- कलह- अभ्याख्यान- पैशुन्य- परपरिवाद- अरतिरति- मायामृषावाद१Boबंधणपरि० २ हन इत्यर्थः ३ PBD निस्तूंशाः ४ BD चिरं