________________
श्री सूत्रकृताङ्ग
दीपिका
द्वि.श्रु.स्कन्थे द्वितीयमध्ययनम्
उक्तानि अधर्म(१) धर्म(२) मिश्र(३) स्थानानि, अथ एतेषां स्थानिनो अभिधीयन्ते, अथवा पूर्वोक्तं एव प्रकारान्तरेण विशिष्टतरम् आह
अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभने एवमाहिज्जइ, इह खलु पाईणं वा ४ संतेगइया मणस्सा भवंति गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अंधम्माणुण्णा अधम्मिट्ठा अधम्मक्खाई अहम्मजीवी अहम्मपलोई अहम्मपलज्जत्ता अहम्मसीलसमुदायारा अहम्मेण चेव वित्तिं कप्पेमाणा विहरंति॥५७॥
अथापरः प्रथमस्थानस्य अधर्मपक्षस्य विभङ्गो विभाग एवमाख्यायते, इह खलु इत्यादि- एते च प्रायो गृहस्था एव स्युः इत्याह- गिहत्था गृहस्थाः, महेच्छा, महारम्भा, महापरिग्रहा, अधर्मेण चरन्ति (इति) अधार्मिकाः, अधर्मानुज्ञाः, अधर्मिष्ठा निस्त्रिंशाः, अधर्माऽऽख्यायिनो अधर्मवादिनः, अधर्मजीविनः, अधर्मप्रलोकिनः, अधर्मे प्रकर्षण रज्यन्ते इति अधर्मप्ररक्तकाः, अधर्मशीलः समुदाचारो-यत्किञ्चनकारित्वं येषां ते तथा, अधर्मेणैव वृत्तिं जीविकां कल्पयन्त: कुर्वन्तो विहरन्ति तिष्ठन्ति।।५७|| पापानुष्ठानमाह१D तेषां २ IAM अधम्माणुया ३ JAM अधम्मलजणा ४ PBD निस्र्तृशाः