SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ : गामनियंतिया कंण्हंसिराहस्सिया जाव तओ विप्पमुच्चमाणा भुजो एलमूयत्ताए तम्मूयत्ताए पच्चायांति, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए।।५६॥ - अथ अपरस्य तृतीयस्थानस्य मिश्रकाख्यस्य विभङ्गो विभागः कथ्यते, अत्र च अधर्मपक्षयुक्तो धर्मपक्ष इति मिश्र उच्यते, तत्र अधर्मस्य इह बहुत्वात् अयं अधर्मपक्ष एव ज्ञेयो, यतो मिथ्याद्दश: काञ्चिज्जीवहिंसादिनिवृत्तिं कुर्वन्ति तथाऽपि चित्तशुद्धेः अभावाद् नवीने पित्तोदये शर्करामिश्रक्षीरपानवद् उषरप्रदेशे वृष्टिवद् वा कार्यासाधकत्वात् निरर्थकतां याति सा, तथा मिथ्यात्वानुभावात् मिश्रपक्षोऽपि अधर्मपक्ष एव इति दर्शयति, जे इमे आरणिया- ये इमे अरण्ये चरंतीति आरण्यकाः कन्दमूलफलाशिनः तापसाः, आवसथो गृहं तेन चरन्तीति आवसथिका-गृहिणः, यद्यप्येते कायक्लेशेन देवाः स्युः तथाऽपि आसुरीयेषु स्थानेषु किल्बिषिकेषु उत्पद्यन्ते इत्यादि सर्वं पूर्वोक्तं वाच्यं यावत् ततश्च्युता नरभवे एलमूकत्वेन प्रत्यायान्ति, तदेतत् स्थानम् अनार्यम् इत्यादि पूर्ववत्, एष तृतीयस्थानस्य मिश्रकस्य विभङ्गो विचारो ज्ञेयः॥५६॥ ॥५४॥ १D किण्हंसि०, २B आरण्यकाः
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy