________________
अभिगिज्झति, एस ठाणे अणारिए अकेवले अपडिपुण्णे अणेयाउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवम हिए ॥ ॥ ५४ ॥
इत्येतस्य स्थानस्य सावद्यरूपस्य एके उत्थिताः पाषण्डाश्रिता अभिगिज्झति लुभ्यन्ते - लोभवशगाः स्युः, अनुत्थिता गृहस्था अपि सन्तो लुभ्यन्ते, झंझाउरा तृष्णाऽऽतुराः लुभ्यन्ते, अत इदं स्थानं अनार्य, अकेवलं अशुद्धं, अप्रतिपूर्ण गुणशून्यत्वात् तुच्छम्, अनैयायिकं अन्यायवृत्तिकं, असंशुद्धं समलं, शल्यं मायाऽनुष्ठानम् अकार्यं, न शल्यकर्त्तनम् अशल्यकर्त्तनं, न विद्यते सिद्धेः मार्गो यस्मिन् तत् असिद्धिमार्गं, न विद्यते मुक्तेः मार्गों ज्ञानादिको यस्मिंस्तद् अमुक्तिमार्ग, न विद्यते निर्वाणस्य चित्तस्वास्थ्यस्य मार्गो यस्मिंस्तत् तथा, अनिर्याणमार्ग न संसारनिर्गममार्गरूपं इत्यर्थः, न सर्वदुःखप्रक्षयमार्गरूपं, यस्मादेकान्तेन मिथ्याभूतं मिथ्याद्दशां, ' असाधु असदाचारत्वात्, एष खलु प्रथमस्थानस्य अधर्मपक्षस्य विभंङ्गो विशेष: स्वरूपम् इति यावत् आख्यातः कथितः ||५४||
१ D० माहिते
२ मिथ्यादृशां भवति अतः मिथ्याभूतं इत्यर्थः
॥५३॥