SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम् तस्य एवम्भूतस्य पुरुषस्य क्वचित् कार्ये सति एकं पुरुषम् आज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, एवं वदन्ति च, भण स्वामिन्! किं कुर्मः वयं? किं आहराम आनयाम:?किं उपनयामो ढौकयाम:? किं आविद्धामोत्ति किं भूषणादि परिधापयामः? किं युष्माकं हृदयेप्सितं? किं युष्माकं आस्यकस्य मुखस्य सयइत्ति स्वदते-स्वादु प्रतिभाति?, अथवा यदेव तव आस्यस्य श्रवति तव मुखान्निर्गच्छति तदेव वयं कुर्म इति, जं पासितत्ति यं राजानं तथा क्रीडमानं दृष्ट्वा अनार्या एवं वदन्ति, देवः खलु अयं पुरुषो, देवस्नातको देवश्रेष्ठो, बहूनाम् उपजीव्यः, अन्योऽपि एनं उपजीवति, तथा तं तादृशम् असदाचारं दृष्ट्वा आर्या विवेकिनो वदन्ति - अभिक्रान्तक्रूरकर्मा अयं पुरुषो हिंसादिप्रवृत्तः, अतिधूनो बहूलकर्मा, अतीव आत्मानं पापैः रक्षतीति अत्यात्मरक्षः, दक्षिणदिग्गामी, नैरयिकः, कृष्णपाक्षिक: कोऽर्थः? - यः क्रूरकर्मा साधुप्रत्यनीक: तद्दाननिषेधक: प्स दक्षिणदिशि नरकतिर्यगादिषु उत्पद्यते, दिक्षु मध्ये दक्षिणा दिश् अप्रशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, ततोऽस्य दिगादिकम् अप्रशस्तम् उक्तं, अन्यदपि अबोधिलाभादिकं योज्यम्, आगमिस्स त्ति-सच आगामिकाले दुर्लभबोधिक: स्यात् इति ॥५३॥ अस्योपसंहारमाह इच्चेयस्स ठाणस्स उठ्ठिया वेगे अभिगिज्झंति, अणुट्ठिया वेगे अभिगिझंति, झंझाउरा १Doधूर्ता २ JAM अभिझंझाउरा
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy