________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
येन शोचन्ते, परानपि शोचयन्ति, ते परान् जूरयन्ति गर्हन्ति, ते स्वकर्मभिः पीड्यन्ते, ते तिप्यति सुखात् च्यावयन्ति आत्मानं परांश्च, ते पापेन परितप्यन्ते अंतर्दह्यन्ते परांश्च परितापयन्ति, एवं ते दु:खशोचनादिक्लेशाद् अप्रतिविरताः स्युः, ते महताऽऽरंभेण प्राणिघातरूपेण, महता समारंभेण प्राणिपरितापरूपेण, विरूपरूपैश्च नानाविधैः पापकर्मकृत्यैः उदारान् उत्कटान् मद्यमांसादियुतान् मानुष्यकान् मनुष्यभवयोग्यान् भोगेभ्योऽपि उत्कटा भोगा भोगभोगा: तान् भोक्तारः स्युः, तद्यथा- अन्नं अन्नकाले यथेप्सितं तस्य पापानुष्ठानात् संपद्यते, एवं पान-वस्त्र-शयना-सनादिकमपि सपूर्वापरं सह पूर्वकृत्येन स्नानादिना अपरकृत्येन विलेपनभोजनादिना वर्तत इति सपूर्वापरं, कोऽर्थः? यद्यदा प्रार्थ्यते तत्तदा संपद्यते इति, तद्यथा- स्नातः, कृतं देवतादिनिमित्तं बलिकर्म येन स कृतबलिकर्मा, कृतानि कौतुकानि अवतारणकादीनि मंगलानि सुवर्ण-चंदना-क्षत-दूर्वा-सिद्धार्था-ऽऽदर्शकस्पर्शनादीनि प्रायश्चित्तानि दुःस्वप्नादिप्रतिघातकानि येन स कृतकौतुकमंगलप्रायश्चित्तः, शिरसि स्नातः, कल्पितो यो मालाप्रधानो मुकुटः स विद्यते यस्य स कल्पितमालामुकुटी, प्रतिबद्धशरीरो दृढाङ्गः, वग्धारियं प्रलंबितं श्रोणीश्रोत्रं कटिसूत्रं मल्लदामकलापश्च येन स तथा, कंठे कृतमाल:, आविद्धानि परिहितानि मणिसुवर्णानि येन स तथा, अहतम् अखंडितं वस्त्रं परिहितं येन स तथा, चंदनेन उत्क्षिप्तं सिक्तं गात्रं शरीरं शरीरावयवा यस्य स तथा नानविधविलेपनावलिप्त इत्यर्थः, महत्याम् उच्चायां महालियाइत्ति विस्तीर्णायां कूटाकारशालायां १D ग्रहते २ PBD ०शनाद्यं ३P 'शरीरं नास्तिं