________________
PR द्वि.श्रु.स्कन्धे
श्री सूत्रकृताङ्गदीपिका
द्वितीयमध्ययनम्
अलसगा वसलया किवणगा समणगा पव्वयंती ॥५१॥
अथैकः कश्चिद् अभिगृहीतमिथ्यादृष्टिः साधुप्रत्यनीक: श्रमणं माहनं साधुं दृष्ट्वा अपशकुनो अयमिति मन्यमानो पापकर्मभिः आत्मानम् उपख्यापयिता भवति, अदुवा गंत्ति- अथवा साधुं दृष्ट्वा अवज्ञया अप्सराया चप्पुटिकाया आस्फालयिता भवति, परुषं कठिनं वचो ब्रूयात् भिक्षाकालेऽपि से तस्य भिक्षोः भिक्षार्थं अनुप्रविष्टस्य अन्नादे: दापयिता न भवति, प्रत्यनीक: सन् इदं ब्रूते, जे इमेत्ति- ये इमे पाषण्डिकाः स्युः ते वोन्नमंता- वोन्नं अधमकर्म तद्विद्यते येषां ते वोनमंतः, भाराक्रान्ता: *कुटुंबभारेण पोट्टलिकादिभारपीडिता वा, अलसा:* कुटुंबं पालयितुम् असमर्थाः ते पाषण्डव्रतं आश्रयन्ति, तथा वृषला अधमाः, कृपणा: क्लीबा अकिंचित्कराः श्रमणा: स्यु: प्रव्रज्यां गृह्णन्तीति ॥५१॥ अथ गृहस्थानाम् अत्यंतविपरीतमतीनाम् असदाचारत्वं प्रकटयन्नाह
ते इणमेव जीवियं धिज्जीवियं संपडिबहंति, नाइते परलोगस्स अट्ठाए किंचि वि सिलेसेत्ति, ते दुस्खंतितेसोयंति ते जूरंति ते पिटुंति ते तिप्पंति ते परितप्पंति ते दुक्खण-सोयण-जूरण-तिप्पणपिंडण-परितप्पण-वह-बंधण-परिकिलेसाओ अपडिविरया
१ PBD चपुटिकाया
** एतदन्तर्गत: पाठ: P प्रतौ नास्ति, २ BD खला ३ BD सेलेसेत्ति ४ DD पिट्टण