________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
अथैकः कश्चित् स्वमतानुरागेण वादपराजितो वा अन्येन वा केनचित् निमित्तेन कुपित: श्रमणानां ब्राह्मणानां छत्रकं वा, दण्डकं वा, भाण्डं किञ्चिद् वस्तु, मात्रकं पात्रं, लट्ठिगं यष्टिं, भिसिगं वृषीम् आसनमिति यावत्, चेलकं वस्त्रं, चिलिमिलिगं प्रच्छादपटी, चर्मकं पादुकादि, चर्मछेदनकं शस्त्रादि, चर्मकोशं शस्त्रक्षेपकोत्थलकं स्वयमेव अपहरेत्, शेषं पूर्ववत् ॥४५।।
से एगइओणो वितिगिंछइतं - गाहावईण वागाहावइपुत्ताण वासयमेव अगणिकाएणं संस्साई झामेइ जाव अण्णं पि झामंतं समणुजाणइ इति से महया जाव भव ॥४६॥
पूर्व विरोधिनो अभिहिताः, अथ इतरे कथ्यन्ते, अथैकः कश्चित् मूढतया नो वितिगिंछइ त्ति न विमर्षति न विचारयति यन्मम अनेन कृतेन परलोके अनिष्टं भावी, अथवा मदीयम् इदं अनुष्ठानं पापानुबन्धि इति न वेत्ति, एवंभूतश्च गृहपत्यादे: निनिमित्तमेव तत्कोपं विनैव स्वयमग्निना शस्यानि शालिग्रीह्यादिकानि दहेत् इत्यादि ज्ञेयम् ॥४६॥
से एगइओ णो वितिगिंछइ, गाहावईण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेइ, अण्णेण वा कप्पावेइ, अण्णं पि कॅप्पिंतं समणुजाणइ ॥४७॥ १D रागो २ Bछेदकं ३ JAM ओसहीओ ४ PBD 'निमित्तमेव' इति अशुद्ध प्रतिभाति ५ D कप्पंतं