________________
पूर्वं वृत्तिः उक्ता, प्रच्छन्नं वा प्राणिघातं कुर्याद, इह तु कुतश्चिन्निमित्ताद् साक्षात् जनमध्ये प्राणिघातप्रतिज्ञया प्रवर्त्तत इत्याहअथैकः कश्चिद् व्यसनेन क्रीडया कुपितो वा पर्षदो मध्येगत उत्थाय एवं प्रतिज्ञां कुर्यात्, अहमेनं प्राणिनं हनिष्यामि इति प्रतिज्ञा कृत्वा तित्तिरादिकं हन्ता इत्यादि यावद् आत्मपापकर्मणा उपख्यापयिता भवति ॥४०॥ __ पूर्वं अपराधं विना क्रुद्धा उक्ताः अथ अपराधक्रुद्धान् दर्शयति
से एगइओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणंगाहावईण वा गाहावइपुत्ताण वा सयमेक-अपणिकाएणं सस्साइं झामेइ, अन्नेण वि अगणिकाएणं सस्साइंस झामावेइ, अगणिकाएणं सस्पाइं झामिंतं अन्नं समणुजाणइ, इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥४१॥
अथैकः कश्चित् प्रकृत्या क्रोधनः, केनचित् आदीयते इति आदानं शब्दादिकं कारणं तेन विरुद्धः परस्य घातं कुर्यात्, केनचित् शब्देन क्रुष्टो निन्दितो वा विरुध्येत, रूपेण बीभत्सं कंचिद् द्रष्ट्वा अपशकुनो अयमिति ध्यात्वा कुप्येत्, गंधरसादिकं सूत्रेणैवाहअदुवा खलक्ति- खलस्य कुथितस्य दानं, खलके वा अल्पधान्यादेः दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं कोशकादि
१ Do पुत्ताणि