________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
से एगइओ सोवणियंतियभावं पडिसंधाय मणुस्सं वा अण्णयरं वा तसं पाणं हंता जाव आहारं आहारेड, इति से महया पावहिं कम्मेहिं उवक्खाइत्ता भवइ॥३९॥
अथैकः कश्चिद् अनार्यः सोवणियंतियत्ति- श्वभिः चरति शौवनिकः, अन्तो अस्यास्तीति अन्तिकः, अंते वा चरति आन्तिकः पर्यन्तवासी, शौवनिकश्चासौ अन्तिकश्च शौवनिकान्तिकः क्रूरसारमेयपरिग्रहः प्रत्यन्तवासी च, तदसौ तद्भावम् आश्रित्य मनुष्यं कञ्चन पथिकम् अन्यं वा मृगशूकरादिकं त्रसं प्राणिनं हन्ता भवति, 'हन्ता इत्यत्र ताच्छीलिक: तृन्' श्वस्तनी'ता' वा, तृच् स्यात् तदा अध्याहारेण पूर्ववत् नेयं, यथा पुरुषं हन्ति, तस्य हंता छेत्ता इत्यादि, तृन्श्वस्तन्यौ प्रागपि योज्यौ, स चैवं महद्भिः पापकर्मभि: आत्मानम् उपख्यापयिता स्यादिति।।३९।। उक्ता सदा जीवनोपायभूता वृत्तिः, अथ क्वचित् कुतश्चिनिमित्तात् सावधाङ्गीकार दर्शयति
से एगइओ परिसामज्झगओ उठित्ता अहंमेतं हँछामि त्ति कट्ठ तित्तिरं वा वट्टगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ॥४०॥
१ BD अंतो २. Do मेयं ३ AM हणामि