________________
से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं तसं पाणं हंता जाव भवइ।।३५।। अथैकः कश्चित् मात्स्यिकभावं आश्रित्य मत्स्य वा अन्यं त्रसं वा जलचरं प्राणिनं हन्यात्, शेषं सुगमम् ॥३५।।
से एगइओ गोघायगभावं पडिसंधाय गोणं वा अण्णयरं तसं पाणं हंता जाव उवक्खाइत्ता भवइ॥३६॥ अथैकः कश्चित् क्रूरकर्मा गोघातकभावं आश्रित्य गां अन्यं वा त्रसं हन्ति, तस्य हन्ता स्यात्॥३६॥
से एंगईओ गोपालकभावं पडिसंधाय तमेव गोणं अण्णयरं वा तसं पाणं परियविय २हंता जाव उवक्खाइत्ता भवइ।।३७॥
अथैकः कश्चिद् गोपालकभावं प्रतिपद्य तां गां परिविच्य(२) पृथक्कृत्वा तस्य हन्ता भवति, शेषं पूर्ववत्।।३७।।
से एगईओ सोवणियभावं पडिसंधाय सुणयं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ॥३८॥
अथैकः कश्चित् सौवणिकभावं श्वपापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं परं वा त्रसं मृगशूकरादिकं हन्यात्, तस्य हन्तेत्यादि पूर्ववत्।।३८॥
॥४७॥
१PBD मात्सिक० २ PBD एगइउ ३ B गोपालग०