SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ "प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥” इति ॥३॥ अस्योत्तरमाह एवमेयाणि० x x x (सू०) ॥४॥ व्याख्या-एवमेतानि पूर्वोक्तानि वचनानि जल्पन्तो नियतिवादिलो 'बाला' मुर्खाः, पण्डितमानिनः, स्वयमपण्डिता अपि आत्मानं पण्डितं मन्यमानाः । पुनः किम्भूताः नियता नियतमजानन्तः, किश्चिनियतिकृतमवश्यम्मावि नियतं, आत्मपुरुषाकारेश्वरादिकृतं किश्चिदनियतं, एवं द्विविधं वस्तु अजानन्तो नियतिकृतमेवैकान्तेनाश्रयन्तः । अत एवाऽबुद्धि का:-बुद्धिरहिता भवन्ति, पुरुषाकारादयोऽपि वस्तूत्पादकाः, यतः । 'न देवमिति सश्चिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? ॥१॥" इति । इत्याद्यजानन्तोऽत एव निर्बुद्धिकाः॥४॥ एतद्वादिनामपायमाह एगमेगे उ० x x x (सू०)॥५॥ व्याख्या-एवमेके नियतिवादिनः पार्श्वस्था युक्तिसमूहादहिस्तिष्ठन्तीति पार्श्वस्थाः परलोकक्रियापार्श्वस्था वा, अथवा 'पाशः' कर्मबन्धनं तत्र स्थिताः, 'ते भुजो'त्ति ते भूयो विविधं 'प्रगरिमताः' धायॊपेताः, नियतिवादमगीकृत्यापि एवं पुनरपि स्वकायें परलोकक्रियासु च प्रवर्त्तमाना अत एव धार्थोपेताः न ते दुःखविमोचकाः आत्मानं
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy