________________
बत्रकृताङ्ग
सत्र.
दीपिका।
प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने द्वितीयोदेशकः।
IS
तेऽनेके जीवाः सुखं दुःखं देवनारकादिमवेषु वेदयन्ति' अनुमवन्ति, अनेनाकर्तृवादो निरस्तः। 'अदुवे 'त्ति अथवा 'लुप्यन्ते' स्थानात् स्थानान्तरं साम्पन्ते, एतेनोपपातिकत्वमप्युक्तम् ॥ १॥ नियतिवादिमतमेवाह श्लोकद्वयेन
न तं सयं कडं० x x x (सू०)॥२॥
न सयं कडं न० x x x (सू०)॥३॥ व्याख्या-यत्तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा, न ते तत्स्वयं-आत्मना पुरुषाकारेण कृतं दुःखं, दुःखस्य चोपलक्षणात्सुखमपि ग्राह्यं, सुखदुःखानुमत्रः पुरुषकारकतो न स्यादित्यर्थः। अनेन कालेश्वरस्वभावकर्मादिना च कुतः कृतं । णमित्यलकारे। कालादिभिरपि न कृतमित्यर्थः किन्तु नियतेरेव निष्पद्यते सर्वमिति । ततः सुखं सैद्धिकं, सिद्धौ-मोक्षे भवं सैद्धिक, यदि 'वा' दुःखं असैद्धिक-सांसारिकं, अथवा सैद्धिकमसैद्धिकं च सुखं, यथा सक् चन्दनाङ्गनाद्युपभोगक्रिया, सिद्धौ भवं सैद्धिकं, आन्तरं सुखमानन्दरूपमसैद्धिकं तथा सैद्धिकमसैद्धिकं च दुःखं, यथा कशाताडनाङ्कनादिक्रियासिद्धौ भवं सैद्धिकं-जरशिरोत्र्तिशूलादिरूपमङ्गोत्थमसैद्धिकं दुःखं । एतदुभयमपि सुखं दुःखं च न पुरुषाकारकृतं न चान्यैः कालादिभिः कृतं वेदयन्त्यनुभवन्ति पृथग् जीवाः, कथं तर्हि प्राणिनो सुखं दुखं च स्यादित्याह'संगइम'ति सम्यग् स्वपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवनं सा सङ्गतिर्नियतिस्तस्या भवं साङ्गतिकं, नियतिकृत्तमित्यर्थः ॥ ३॥ इहास्मिन् सुखदुःखानुभववादे एकेषां नियतिवादिनामिदमाख्यातं यदुक्तं तैः
॥६
॥