SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ riakik व्याख्या-नानाविधानि' अनेकप्रकाराणि दुःखानि अनुभवन्ति पुनः पुनः संसारचक्रमाले मृत्युन्याधिजराभिराकुले-व्याप्ते ॥ २६ ॥ तेषां दुःखफलमुपसंहारं चाह उच्चावयाणि० x x x (सू०)॥ २७॥ व्याख्या-'उच्चावचानी'ति अधमोचमानि स्थानानि 'गच्छन्तो' भ्रमन्तो गर्भाद्गममेष्यन्ति-यास्वन्त्यनन्तशः। नायपुत्ते'त्ति 'ज्ञातः' सिद्धार्थक्षत्रियस्तस्य पुत्रः श्रीमहावीरो जिन एवमुक्तवान् इति । ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याहेति ॥ २७॥ इति श्रीसूत्रकृते द्वितीयाङ्गे प्रथमाध्ययने प्रथमोद्देशकव्याख्या सम्पूर्णा ॥१॥ उक्तः प्रथमोद्देशः, अथ द्वितीयोदेशकः कथ्यते । तस्यायमर्थसम्बन्धः आद्योदेशके भूतवादा[या] दिमतं प्रदर्य निराकृतं, इहाप्यवशिष्टं तदेवोपदय निराक्रियत इत्यनेन सम्बन्धेनागतस्यास्योद्देशकस्य सूत्रं यथा आघायं पुण० x x x (सू०)॥१॥ व्याख्या-पुनः 'एकेषां' नियतिवादिनामेतदाख्यातं, आख्यातमित्यत्र भावे क्त प्रत्ययः, तद्योगे च "वा क्लीच" इति कर्तरि षष्ठी । ततश्च नियतिवादिभिरिदमाख्यातमित्यर्थः। किं तदित्याह-'उववण्ण 'त्ति 'उपपन्ना' युक्त्या घटमानाः 'पृथक् ' अनेके जीवाः जीवसवे पञ्चभूततच्छरीवादिमतं निराकृतं पृथगित्यनेन आत्माऽद्वैतवादिनिरासश्च ।
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy