________________
श्रीसूत्रकृताङ्ग
प्रकाशकीयम्
चूर्णिः ॥९॥
सानन्दं प्रकाशयामश्चतुर्दशपूर्वधर श्रीभद्रबाहुस्वामिनिर्मितनियुक्तियुतं पूर्वाचार्यविरचितचूर्णिविभूषितं श्रीसूत्रकृताङ्गसूत्रस्य द्वितीयं श्रुतस्कन्धम् ।
पुरा वैक्रमीये १९९८ संवत्सरे रतलामस्थश्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया आगमोद्धारकश्रीमदानन्दसागरसूरिसम्पादिता श्रीसूत्रकृताङ्गसूत्रस्य चूर्णिः प्रकाशिता। ततः श्रीसूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धस्य चूर्णि: वैक्रमीये २०३१ अब्दे आगमप्रभाकरमुनिराजश्रीपुण्यविजयैः संशोधिता सम्पादिता च प्राकृतटेक्स्टसोसायटीनामसंस्थया प्रकाशिता च ।।
अधुना श्रीसूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धस्य चूणिः परमपूज्य-वैराग्यदेशनादक्ष-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराणां कृपया तच्छिष्यरत्न-मुनिराज श्रीरत्नबोधिविजयेनाऽनेकहस्तलिखितप्रतिसाहाय्येन संशोधिता सम्पादिता च । ततश्चाद्येदं ग्रन्थरत्नं प्रकाश्यते ।
मुनिराजश्रीजम्बूविजयसंशोधितसम्पादितं श्रीसूत्रकृताङ्गसूत्रमूलं वैक्रमीय २०३७ वर्षे श्रीमहावीरजैनविद्यालयेन प्रकाशितम् ।।
॥९
॥