________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१०॥
तस्माद्वितीयः श्रुतस्कन्धोऽत्र गृहीतः ।
पन्यासश्रीचन्द्रसागरगणिवरसंशोधितसम्पादिता श्रीसूत्रकृताङ्गसूत्रनियुक्ति: वैक्रमीय २००६ वर्षे मुम्बापुरीस्थश्रीगोडीजी| पार्श्वनाथजैनदेरासरपेढीसंस्थया प्रकाशिता । तस्या द्वितीय श्रुतस्कन्धनियुक्तिरत्रोपयुक्ता ।
पुन:प्रकाशनपुण्यावसरेऽस्मिन् पूर्वसंशोधकान् पूर्वसम्पादकान् पूर्वप्रकाशकांश्च कृतज्ञभावेन स्मरामो धन्यवादांश्च प्रयच्छामः ।
पञ्चशताधिकप्राचीनशास्त्रसमुद्धारप्रेरक-गुणमूर्ति-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां शुभप्रेरणया समतासागरपन्यासप्रवर श्रीपद्मविजयगणिवराणां पुण्यस्मृतौ श्रीजिनशासनआराधनाट्रस्टग्रथितायां प्राचीनश्रुतसमुद्धारपद्ममालायां प्रकाशित एकसप्ततितमं पद्ममिदं श्रीश्रमणसङ्घाय सहर्षं समर्पयति
- श्रीजिनशासनआराधनाटूस्टः ।
॥१०॥