________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ८ ॥
तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोहभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥ शीलैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥५॥ कल्लोलकृद्वरकृपा भवतो विभाति, देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥६॥ सीमानमत्र न गता न हि सा कलाऽस्ति, प्रक्रान्तदिक्सुगुणसौरभभाग्गुरोऽसि । दृष्टाश्च दोषरिपवो दशमीदशायां, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७॥ त्वद्पादपद्मभ्रमरेण देव ! श्रीहेमचन्द्रोक्तिकृता सदैव ।
भानो ! नुतोऽसीत्यतिभक्तिभावात् त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥८ ॥ ( इन्द्रवज्रा )
112 11