SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ५० ॥ | च । तत्र जीवधर्म्मा जन्मव्याधिजरारोगशोकसुखदुःखजीवितमरणाद्याः । अजीवधर्म्मा अपि मूर्तिमताममूर्त्तिमताञ्च द्रव्याणाम् । मूर्त्तिमतां तावत् वर्णगन्धरसस्पर्शाः । अमूर्त्तिमतां आकाशदिक्कालादीनाम् । दिश्यन्त इति दिशः । | परापरत्वादि कालस्य । शब्दगुणमाकाशम् । कतरः पुरुषो योऽसौ परमेश्वरः विष्णुरीश्वरो वा ? आह हि - 'पुरुष: कर्मणां कर्त्ता० । ' ( ), तथा चाहु: 'ईश्वरात् सम्प्रवर्त्तते० ।' ( ) अपरे ह्याहु:-' एका मूर्त्तिः त्रिधा जाता० । ' ( ) इत्यतः पुरुषादीया। 'पुरुषप्रणीताः पुरुषेण प्रणीयमानास्तान् प्रकारानापद्यन्ते क्षीरवत् । पुरुषोत्तमीयाः न स्त्री न नपुंसो, पुरुष: प्रधानः, पुरुषेण प्रदर्शिताः प्रद्योतिताः, यथा प्रदीपेनादित्येन वा घटः । पुरुषेणाभिसमन्वागताः | पुरुषेण आभिमुख्येन अणुगता सर्वगतत्वात् मृणालतन्तुवत्, न पुरुषमुदस्य वर्त्तन्ते, लयकालेऽपि पुरुषमेवाधितिष्ठन्ति | जलोम्मिवत्, आह हि - 'जह सलिलंमि तरंगा० ।' ( ) दृष्टान्त: जहा गण्डे शरीरे जाए वुड्ढे जाव अभिभूय चिट्ठइ । यथा तं समनादिभिः क्रियाविशेषैः समितं सरीरमेव अभिभूय चिट्ठइ एवामेव धर्म्मा इस्सराईया० । एवं सापि ॥६५९|| ||६६०|| १. पुरिसोत्तरिया परिसप्पणीया पुरिसपज्जोइता.... मूले । २. एवामेव धम्मा वि पुरिसादिया- मूले । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ ५० ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy