________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४२२॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
देसावगासिकं गृहीतं । तत्र चेयं भावना- पञ्चभ्यो योजनेभ्यो आरतो ये त्रसाः प्राणिनस्तेषां प्रत्याख्यानं करोति । तत्र सपञ्चयोजनाभ्यन्तरे केऽपि त्रसाः ते स्थानत्रये उत्पद्यन्ते । तत्र प्रथमं तावत्पञ्चयोजनेभ्यः अन्तरवर्तिषु त्रसेष्वाश्रयः प्रथमसूत्रदण्डकः । तथाऽसावेव त्रसः पञ्चयोजनेभ्य उत्तरवत्तिषु स्थावरेषूत्पद्यते द्वितीयः । तथाऽसावेव पञ्चयोजनवर्ती स्थावरः पञ्चभ्यो योजनेभ्यो ये परेण वर्तन्ते त्रसस्थावरास्तेषूत्पद्यते तृतीयः । इदानीं ये ते पञ्चभ्यो योजनेभ्यः परेण वर्त्तन्ते त्रसस्थावरास्ते पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषूत्पद्यन्ते प्रथमः । तथा त एव पञ्चयोजनबहिर्वतिनो त्रसस्थावराः पञ्चयोजनाभ्यन्तरवत्तिषु स्थावरेषूत्पद्यन्ते द्वितीयः । तथा त एव पञ्चयोजनबहिर्वतिष्वेव उत्पद्यन्ते तृतीयः । एते च सर्वे | मिलिता नव भवन्ति । अयं भावार्थ:-पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषु सूत्रदण्ड(क)त्रयम् । एवं पंचयोजनाभ्यन्तरवर्तिषु स्थावरेषु सूत्रदण्डकत्रयम् । तथा च पञ्चयोजनबहिर्वत्तिनो ये त्रसा: स्थावरास्तेषु सूत्रदण्डकत्रयं । अत्र च ये ते पञ्च(योजन)बहिर्वत्तिनो त्रसा: स्थावरास्ते परिहारमङ्गीकृत्यैकाकारा एव । जंपि दिसिवतं ण संखित्तं भवति तंपि दिणे दिणे देसावगासिएणं संखिवइ । जण्ण दिवसं संखित्तं तं रत्तिं संखिवंति । अट्ठा णाम कृष्यादिकर्मसु जे तसे
A॥४२२॥
१. पञ्चभ्यो
आरत:-11