________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३९०॥
द्वितीयश्रुतस्कन्धे सप्तममध्ययनम्
| पच्चक्खाणं ण भग्नं भवति? स्याच्चेत्कथं सुप्रत्याख्यापितं भवति साधोः कथं च सुप्रत्याख्यातं भवति श्रावकस्य? उदओ आह-तत उच्यते, तेर्सि साधूणं पच्चक्खायंताणं एवं पच्चक्खायमाणाणं सुपच्चक्खातं होज्जा सावगाणवि तेहिं साधूहिं पच्चक्खावेंताणं एवं सुपच्चक्खातं होज्जा । एवं ते परं पच्चक्खावेमाणा । परशब्दो हि उभयग्राही। | पच्चाइक्खंतस्स हि पच्चक्खावेमाणो परो । पच्चक्खावेंतस्सवि पच्चक्खाइओ परो । इत्युवाच, यथापि परशब्दः नातिचरन्ति स्वां स्वां प्रतिज्ञां, णण्णत्थ अभिजोएणंति । तिहि गाहावतित्ति यावन्न व्रतानि तावद् गृहपतीत्युच्यते गृहीतानुव्रतस्तु श्रावकः उपासको वा। 'तसभूतेहिं पाणेहिति ऋजुसूत्रादारभ्य सर्व एव उपरिमा णया नैश्चयिका ते तु वर्तमानमेवार्थं प्रतिपद्यन्ते न त्वतीतानागते इत्यतो नैश्चयिकनयमधिकृत्योच्यते त्रसत्वं भूतं येषां त्रसभूताः, | वर्तमानमित्यर्थः, न त्वनागतं घृतघटदृष्टान्तसामर्थ्याच्च ते भवन्ति त्रसभूताः । तेहि तसभूतेहिं पच्चक्खंतस्स साधुस्स
अलियवयणवेरमणं ण भग्गं भवति, पच्चक्खावेंतस्स य सावगस्स स्थूलगपाणातिपातवेरमणं ण भग्गं भवति । को दृष्टान्तः ? क्षीरविगतिप्रत्याख्याने दधिपानवत्, यथा क्षीरविगतिप्रत्याख्यायिनः सस्वरमपि दधि पिबतः प्रत्याख्यानं १......सामर्थ्यात्-F।
॥३९०॥