________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३७७॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
(चू०) पंज्जत्तीभावो पढमो बितियो य भवे अलंकारे० ।' पर्याप्तौ तावत् अलं देवदत्तो यज्ञदत्ताय, अलं केवलज्ञानं सर्वभावोपलब्धौ, अलं च श्रुतज्ञानं उपलब्धौ । विभावने च उक्तं च-'द्रव्यास्तिकनयारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान् वादी, कुवादिभ्यो भवत्यलं ॥१॥'( )विभूषणेऽपि, अलङ्कारैः अलङ्कृता स्त्री, वर्धमानेन अलङ्कृतं नभश्चन्द्रमसा, उक्तञ्च-'भवतस्त्वलमेव संस्तवेन।'( ) वारणेऽपि अलं, अलं तवेतेहिं, अलं प्राणातिपातेन यत इहामुत्र चापायाः, उक्तञ्च-'अलं कुतीयरिह पर्युपासितैरलं | वितर्काकुलकाहलैर्मतैः । अलं च मे कामगुणैनिषेवितैर्भयङ्करा ये हि परत्र चेह च ॥१॥'( ) अत्र | प्रतिषेधालंशब्देनाधिकारः ॥२०२।। अत्र गाधा -
(नि०) पडिसेहणगारस्सा इत्थिसद्देण चेव अलसद्दो ।
रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥२०३॥ १. पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे। - मुद्रितनिर्युक्तौ ।
॥३७७॥