________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३६७॥
द्वितीयश्रुतस्कन्धे
मध्ययनम्
| प्रत्याशा? एतदेवोत्तरमेकात्मवादिनामिति ॥५१।।
एवं साङ्ख्यान्निर्लोठ्य भगवन्तमेव प्रतितिष्ठन्तमार्द्रकं केचिदतिदीर्घश्मश्रुनखरोमाणो जटामुकुटदीप्तशिरसो धनुष्पाणयो हस्तितापसाख्याः परिवार्योचुः-भो भो ! क्षत्रियकुमार आर्द्रक! तिष्ठ तावदीषत्तरं इमामस्माकं सिद्धान्तोदितां । पुष्करचर्यां शृणु । श्रुत्वा रोचयिष्यसि यास्यसि वा। तत ईषद् व्यवस्थिते राजपुत्रे पञ्चशतपुरुषपरिवारो हस्तितापसानां वृद्धतमस्तमुवाच । वयं हि द्वादशाग्रात् अभ्युदयार्थिनः मुमुक्षवो हस्तितापसा वा इति वाच्या महाजनेन । ते च वयं | परमकारुणिकाः सत्त्वेषु । वने हि वसतां मूलस्कन्धोवघात आहारार्थः सुमहादोष इति मत्वा तेण -
(मू०) संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु।
सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥५२॥ (सूत्र ८३९) (चू०) संवच्छरेणावि य एगमेगं० ।' संवसन्ति तस्मिन्निति संवत्सरः । एकैकमिति वीप्सा एक्कक्के मासे एकेक्कं । 'बाणेण' सरेण विसलित्तेण वा ममं घंति मारेतुं महागजंति गच्छति गर्जति वा गजः महाकायं महागजं मत्तं |
॥३६७॥