________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३६६ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(चू०) 'जे गरहियं ठाणमिहावसंति० ।' गरहितं-निन्द्यं जातितः कुलतश्च । ननु जातितश्चाण्डाला कर्मतश्चाण्डालत्वेऽपि सति] (सत्यपि) ये सौकारिकाश्च । स्थानं वृत्तं कर्मेत्यनर्थान्तरम् आवसन्ति उवजीवन्ति । चरणं वृत्तं मर्यादेत्यनर्थान्तरम् । चरणेणं उववेति । तदपि जो जातितो वृत्ततश्च । जातितो मिथ्यादृष्टिलोकसम्मतो ब्राह्मणः परिव्राज्य व्रजितः । एतदुभयमपि भवन्मते नैव उदाहरन्ति (न) हि उदाहरणं भवति । अथार्थापत्तिः एतदापद्यते सर्वगतत्वे सति सर्वात्मनां समतेति । समता समं तुल्यमित्यर्थः तुल्याहृतद्रव्यवत् । सतिएत्ति बुद्धीए । एवंप्रकाराए सर्वगत आत्मेति, सतीए त्ति वा मतीए त्ति वा एगटुं । 'अधाउसे विप्परियासमेव' अथ इत्यानन्तर्ये, सर्वगतत्वे सति सर्वात्मना निकृष्टोत्कृष्टयोः समता इत्यर्थः । 'आउसे'त्ति हे आयुष्मन्तः ! विद्वियोगे विपरीतो आसो विपर्यासः ।। विपरीत इत्यर्थः । कथं ? सर्वगतत्वेन चेदानीं निकृष्टोत्कृष्टानां साम्यं भविष्यति । अधवा संविदधिगमो ज्ञानं भाव । इत्यनर्थान्तरमितिकृत्वा विपरीतभावमेव सर्वगतग्राह इत्यर्थः । अथवा विवज्जास इति मत्तोन्मत्तप्रलापवदित्युक्तं भवति । तावच्चैतत्स्यात् सर्वगतत्वे सति सर्वात्मनां निकृष्टोत्कृष्टानां तुल्यता तुल्यतेव च सर्वगतमित्यन्यथा वा का
॥३६६॥
१. मतीए-मूले।