SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३६४॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् भवा देवलौकिका अमरा इत्यर्थः । एतदेव चोत्तरं एकात्मकवादिवैदिकानां। किञ्च-एकात्मकत्वे च सति पितृपुत्रादिरिति | वार्ता न घटते। तत्सर्वज्ञप्रामाण्यात्साङ्ख्यज्ञानप्रामाण्यात् । ब्रह्मापि च किल सर्वज्ञः । तेन चोक्तं-'यस्मात्परं नापरमस्ति किञ्चित् ।' तत्कथं केवलज्ञानदृष्टमनृतं भविष्यति इति? उच्यते-नैव ते केवलिनो भवन्ति । कथं? अन्तत्वादर्शित्वात् । | सूत्रं त्वदृष्टमिति? उच्यते, ननूक्तमेवं'न मिज्जति ण संसरति' वैदिकानामपि एकात्मकत्वे च ये केवलज्ञानेन लोकमज्ञात्वा जहा वहादीभिस्तीर्थं प्रवर्त्तयन्ति तेषां कथं वाक्यं प्रमाणं स्यादिति ? ॥४८॥ अथ सूत्रम्(मू०) लोयं अजाणित्तिह केवलेणं, कहेंति जे धम्ममजाणमाणा। नासेंति अप्पाण परं च णट्ठा, संसार घोरम्मि अणोरपारे ॥४९॥ (सूत्र ८३६) (चू०) लोकं अजाणित्तिह केवलेणं०।' लोको नाम द्रव्यक्षेत्रकालभावानां यथावस्थितिः । तं लोकमज्ञात्वा तेन येन धर्म कथयन्ति अजाणमाणा णासंति अप्पाणं परं च णट्ठा जधा अन्धो देशकोऽध्वानं अप्पाणं परं च णासेति एवं तेवि ॥४९॥ ॥३६४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy