SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३६१ ॥ (चू० ) "अव्यक्तरूपं पुरिसं महंतं० ।' अव्यक्तं रूपं यस्य स भवत्यव्यक्तरूपः । पञ्च तन्मात्राणि बुद्धिर्मनोऽहङ्कार इति पुरं । अधवा से शरीरं पुरं तस्मिन् पुरे शयत इति पुरुष: । 'महान्त' इति सर्वगतः । सर्वया वा प्रकृत्या गतः । सनातनः पुरातन इत्यर्थः । आह हि - 'अजो नित्यः शाश्वतो यो न क्षीयते घटवत्० ।' ( ) इत्यत: (अ) क्खतो- 'नैनं छिन्दन्ति शस्त्राणि गतिप्रजनकान्त्याशनखादनेषु० ।' ( ) अक्षयोऽपि कश्चिद्व्ययति परमाणुवत् । परमाणुर्व्ययति विगच्छतीत्यर्थः, आह हि - 'अच्छेद्यो ऽयमभेद्यो ऽयं ।' ( ) से सव्वपाणेसु स सर्व्वगतोऽसौ सर्वप्राणा: करणात्मनः । अधवा आयुरिन्द्रियशरीरबुद्धिप्राणाः । 'से' इति तस्यात्मनो निर्देश: । सर्व्वत इति सर्वासु दिक्षु सर्व्वकालं च नित्यमित्यर्थः, आह हि - 'सर्वं सर्वत्र सर्वकालं च० ।' ( ) नित्य इत्येको विशिष्यते । सर्वकारणात्मनामन्यः । यथा चन्द्रमाः सर्वग्रहनक्षत्रताराभ्यो वर्णप्रमाणसंस्थानलक्ष्मलक्ष्मीप्रभाकान्तिसौम्यतादिभिर्विशेषैर्विशिष्यते एवमसावपि परमात्मा कारणात्मभ्यो विशिष्यते । साङ्ख्यप्रक्रियावादः । अथवा | वैदिकानामयं सिद्धान्त: 'अव्वत्तरूवं पुरिसं महंतं ।' तेषामेक एव परमात्मा, शेषास्तु तत्प्रभवाः, आह हि - १. अव्वत्तरूवं - मूले । २. सव्वेसु भूतेसु वि सव्वतो सो-मूले। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३६१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy