________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३६० ॥
यस्य ज्ञानस्य तदिदमाचारशीलम् । अधवा ज्ञानमिति भवतामपि ज्ञानमिष्टं द्वादशाङ्गं गणिपिटकं केवलं च, इहापि षष्टितन्त्रं केवलज्ञानं च 'अविपर्ययाद्विसुद्धं केवलज्ञानमुत्पद्यते' ( ) ज्ञानं अधवा चैतन्यमित्यर्थः । तच्च पूर्व्वमुक्तं भवतामपि चैतन्यात् अनन्य आत्मा । तदेवं सर्वमविशिष्टं 'ण 'संपराए (य) विसेसमत्थि' चशब्द: समुच्चयार्थः । किं समुच्चिनोति ? पूर्वोक्तकारणानि 'दुहतोवि धम्मंमि समुट्ठितामो' यथा एतेष्वविशेषः एवं संपराइतोवि । संपरीत्यस्मिन्निति सम्परायः स च संसारः भवतामपि संसरत्यात्मा अस्माकमपि कारणात्मा संसरति, आह हि - 'संसरति० ।' ( ) वेदयन् मुञ्चन् सर्वथैवाविशेषः । कस्मात् ? परमात्मनः संसारित्वात् ॥४६॥
उक्तं हि
(मू० ) अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च ।
सव्वेसु भूतेसु वि सव्वतो सो, चंदो व्व ताराहिं समत्तरूवो ॥४७॥ (सूत्र ८३४ )
१. संपरायंसि-मूले ।
द्वितीय
श्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३६० ॥