SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। ३५९ ॥ I क्षेत्रम् । पञ्चविंशतितमः पुरुषः । तत्र न किञ्चिदुत्पद्यते विनश्यति वा । किन्तु केवलमभिव्यज्यते तमसि प्रदीपेन | घट: यथा, भूमिदेशे द्विगादाद्वा मूलोदगादीन्यभिव्यज्यन्ते । एवं प्रभवः । संहारकाले च यद्यस्मादुत्पन्नं तत्तत्रैव लीयते इत्यतः सत्कार्यम् । भवतामपि च द्रव्यार्थतया नित्या: 'सर्व्वे भावाः । इत्यतः सत्कार्यपरिग्रहः एव यथाऽस्माकम् । | स्वरूपं चैतन्यं पुरुषस्य नै: श्रेयसिके मोक्षे इत्यर्थः । न त्वभ्युदयिके इष्टविषयप्रीतिप्रादुर्भावात्मके अनैकान्तिके च । स चायं नियमलक्षणो धर्म्मः । तत्र पञ्च यमाः अहिंसादयो भवतामपि पञ्च महाव्रतानि पञ्चयमो धर्मो । नियमोऽपि | पञ्चप्रकार एवेन्द्रियनियम: । ' अस्सिं सुट्ठिच्च 'त्ति यथा भवन्तोऽस्मिन् स्वधर्मे यमनियमलक्षणे एवं स्ववस्थिताः | एवं वयमपि स्वे धर्मे यमनियमलक्षणे स्थिताः । न 'कल्ककुहकाजीवनार्थं लोकप्रत्ययार्थं वा । ‘ऐँस्सकालं'ति जावज्जीवाए। एवं तावदावयोरविशेषः । किञ्च - आचारशीलं २ । तत्राचारः यथा भवतां युगमात्रान्तरदृष्टित्वं एवमस्माकमपि, यथा रजोहरणं प्रमार्जनार्थं एवमस्माकमपि केसरिका, यथा वचो वाक्यमिति एवमस्माकमपि मौनं नात्युच्चैर्भाषणं वा, अधवा शीलं भद्रमृदुस्वभावता आक्रौर्यममत्सरो वा । बुइतं वृत्तं । ज्ञानमुपदेश आचारः शीलं १. सर्व्वभावा: -C | २. फल्गुकल्क...J । ३. एसकालं मूले। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३५९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy