________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३५८ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
पुण जो बहुए ? कुत्सितशील: कुशीलः हिंसाद्याश्रवद्वारप्रवृत्तो हिंसकधर्मोपदेशको । अणिधो णिधं णाम अधः
ओसिसं अधिकारम् । दुरुत्तरं नरकमिति वाक्यशेषः । अन्तकाल इति मरणकालः । तानेवं ब्रह्मवतिनः प्रतिहत्य | भगवानार्द्रको भगवन्तमेव प्रति प्रातिष्ठत् ॥४५॥ __ अथैनं विदं त्रिदण्डकुण्डीय जाव पवित्तगिहत्थगता परिव्राजकाः परिवार्य उभयपक्षाविरुद्धाभिराशीभिर्दण्डमाणा एवमूचुः
(मू०) दुहतो वि धम्मम्मि समुट्ठियामो, अस्सि सुठिच्चा तह एसकालं ।
आयारसीले वुइए( )ह नाणे, ण संपरायंसि विसेसमत्थि ॥४६॥(सूत्र ८३३) (चू०) भो भो आर्द्रक राजपुत्र ! इदं तावदस्माकं सिद्धान्तं शृणु, तद्यथा-तमः खल्विदमग्रे आसीत्, अव्यक्तमित्यर्थः । तस्मादव्यक्तान्महदहङ्कारतन्मात्रेन्द्रियभूतानां प्रादुर्भावः, आह हि-'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥१॥'( ) इत्येतच्चतुर्विंशकं
॥३५८॥